{"title":"मतान्तरालोचनपुरस्सरं वैयाकरणमते धात्वर्थानुशीलनम् {Rootwords as a Prime Concern of all Dictions}","authors":"भोलानारायण Bholanarayan रेग्मी Regmi","doi":"10.3126/kdk.v4i1.64543","DOIUrl":null,"url":null,"abstract":"प्रस्तुतोऽयमालेखो मतान्तरालोचनपूर्वकं वैयाकरणमते धात्वर्थानुशीलने केन्द्रितोऽस्ति । सकलव्युत्पत्तेर्बीजभूतत्वात् सर्वशब्दमूलको धातुर्वर्तते । शब्दशास्त्रस्य सार्थक्यानुशीलनं कुर्वाणाः प्राच्यार्वाचीनाः शाब्दिकाः पाणिनि (त्रिमुनि) व्याकरणाधीनाः। अत्र च शोधशीर्षकघटकमतान्तरपदेन स्वेतराणां नैयायिकानां मीमांसकानाञ्च मतानि क्रोडीकृतानि सन्ति । तेषां मते धात्वर्थः फलमात्रं आहोस्वित् व्यापारश्च कः? एकतरमते शाब्दबोधे किमभिन्नं भिन्नं वा, अपि च मीमांसकानां मते प्रभाकरस्य कुमारिलभट्टस्य च भावनाप्रधाने शाब्दीभावनाया आर्थीभावानायाश्च भेदद्वयं दृश्यते तयोश्च व्यापाररूपत्वं हृदि निधाय समापतितानां दोषाणां प्रदर्शनपूर्वकं नैयायिकाः किं विवदन्ते तद्दोषवारणाय कौण्डभट्टमतस्योत्तररूपेण ”फलव्यापारयोर्धातु राश्रये तु तिङः स्मृतः............... इति कारिकामुररीकृत्य धात्वर्थः कः ? व्यापारः कः ? फलञ्च किम्? फलमात्रस्वीकारे को दोषः,भावनामुख्यविषयभूतानां प्रभाकरमीमांसकानां मते व्यापारमात्रं धात्वर्थस्वीकारे शाब्दबोधरूपपरिनिष्ठितलक्ष्ये को व्यात्यासः, वैयाकरणेष्वपि नागेशभट्टस्य किञ्चिद् भिन्नं मतं दृश्यते तदपि दृग्गोचरीकृत्य परिवेषणमस्यानुसन्धानकार्यस्य विषयो विद्यते । तद्यथा—\nफलव्यापारयोर्धातुराश्रये तु तिङः स्मृतः ।\nफले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्। (कौण्डभट्ट, वि.सं २०४५ पृ.सं ७)\nफलव्यापारयोः, इत्यत्र सप्तम्या विभक्तेः, निरूपितत्वमर्थः, अर्थात् फलनिष्ठं व्यापारनिष्ठञ्च यद् वाच्यं तन्निरूपितवाचकतावत्वं धातौ वर्तते । अत्र द्विवचनदर्शनेन च फले व्यापारे च धातोः पृथक् पृथक् शक्तिः सिद्ध्यति । अस्मिन् स्थले फलावच्छिन्ने व्यापारे एकैव विशिष्टा शक्तिरिति स्वीकारे तण्डुलान् पचतीत्यादौ तुण्डुलानाम्, चैत्रेण, तण्डुलाः पच्यन्ते इत्यादौ व्यापारे चैत्रस्य च अन्वयो न स्यात् “पदार्थः पदार्थेनाऽन्वेति न तु पदार्थैकदेशेन” इति नियमात्। तस्मात् एकवृन्तगतफलद्वय— फलत्रितयादि —न्यायेन फले व्यापारेच सर्वेषां धातूनां भिन्ना भिन्ना शक्तिरिति सिद्ध्यति । फले व्यापारे च धातुपदस्य द्विधा त्रिधा शक्तिः । तिङर्थास्तु आश्रयाः, फलाश्रया व्यापाराश्रया इति । अत्र फलापेक्षया व्यापारः प्रधानः, तिङर्थोः धात्वर्थे विशेषणं स्मृतः । अत्र च एकशेषेण स्मृताश्च स्मृतश्च इति स्मृताः । अतः फलव्यापारयोर्धातुःस्मृतः, आश्रये तु तिङर्थाः स्मृता इत्यत्र बहुत्वं च सङ्गच्छते । अत्र जरन्नैयायिकानां मीमांसकानामभिनवानाञ्च दार्शनीकानां मतमन्थनेन सुप्रसिद्धस्य धात्वर्थस्य समालोचनमत्र वरीवर्ति ।","PeriodicalId":332111,"journal":{"name":"Kaumodaki: Journal of Multidisciplinary Studies","volume":"35 2","pages":""},"PeriodicalIF":0.0000,"publicationDate":"2024-04-09","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":"{\"title\":\"मतान्तरालोचनपुरस्सरं वैयाकरणमते धात्वर्थानुशीलनम् {Rootwords as a Prime Concern of all the Dictions}\",\"authors\":\"भोलानारायण Bholanarayan रेग्मी Regmi\",\"doi\":\"10.3126/kdk.v4i1.64543\",\"DOIUrl\":null,\"url\":null,\"abstract\":\"प्रस्तुतोऽयमालेखो मतान्तरालोचनपूर्वकं वैयाकरणमते धात्वर्थानुशीलने केन्द्रितोऽस्ति । सकलव्युत्पत्तेर्बीजभूतत्वात् सर्वशब्दमूलको धातुर्वर्तते । शब्दशास्त्रस्य सार्थक्यानुशीलनं कुर्वाणाः प्राच्यार्वाचीनाः शाब्दिकाः पाणिनि (त्रिमुनि) व्याकरणाधीनाः। अत्र च शोधशीर्षकघटकमतान्तरपदेन स्वेतराणां नैयायिकानां मीमांसकानाञ्च मतानि क्रोडीकृतानि सन्ति । तेषां मते धात्वर्थः फलमात्रं आहोस्वित् व्यापारश्च कः? एकतरमते शाब्दबोधे किमभिन्नं भिन्नं वा, अपि च मीमांसकानां मते प्रभाकरस्य कुमारिलभट्टस्य च भावनाप्रधाने शाब्दीभावनाया आर्थीभावानायाश्च भेदद्वयं दृश्यते तयोश्च व्यापाररूपत्वं हृदि निधाय समापतितानां दोषाणां प्रदर्शनपूर्वकं नैयायिकाः किं विवदन्ते तद्दोषवारणाय कौण्डभट्टमतस्योत्तररूपेण ”फलव्यापारयोर्धातु राश्रये तु तिङः स्मृतः............... इति कारिकामुररीकृत्य धात्वर्थः कः ? व्यापारः कः ? फलञ्च किम्? फलमात्रस्वीकारे को दोषः,भावनामुख्यविषयभूतानां प्रभाकरमीमांसकानां मते व्यापारमात्रं धात्वर्थस्वीकारे शाब्दबोधरूपपरिनिष्ठितलक्ष्ये को व्यात्यासः, वैयाकरणेष्वपि नागेशभट्टस्य किञ्चिद् भिन्नं मतं दृश्यते तदपि दृग्गोचरीकृत्य परिवेषणमस्यानुसन्धानकार्यस्य विषयो विद्यते । तद्यथा—\\nफलव्यापारयोर्धातुराश्रये तु तिङः स्मृतः ।\\nफले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्। (कौण्डभट्ट, वि.सं २०४५ पृ.सं ७)\\nफलव्यापारयोः, इत्यत्र सप्तम्या विभक्तेः, निरूपितत्वमर्थः, अर्थात् फलनिष्ठं व्यापारनिष्ठञ्च यद् वाच्यं तन्निरूपितवाचकतावत्वं धातौ वर्तते । अत्र द्विवचनदर्शनेन च फले व्यापारे च धातोः पृथक् पृथक् शक्तिः सिद्ध्यति । अस्मिन् स्थले फलावच्छिन्ने व्यापारे एकैव विशिष्टा शक्तिरिति स्वीकारे तण्डुलान् पचतीत्यादौ तुण्डुलानाम्, चैत्रेण, तण्डुलाः पच्यन्ते इत्यादौ व्यापारे चैत्रस्य च अन्वयो न स्यात् “पदार्थः पदार्थेनाऽन्वेति न तु पदार्थैकदेशेन” इति नियमात्। तस्मात् एकवृन्तगतफलद्वय— फलत्रितयादि —न्यायेन फले व्यापारेच सर्वेषां धातूनां भिन्ना भिन्ना शक्तिरिति सिद्ध्यति । फले व्यापारे च धातुपदस्य द्विधा त्रिधा शक्तिः । तिङर्थास्तु आश्रयाः, फलाश्रया व्यापाराश्रया इति । अत्र फलापेक्षया व्यापारः प्रधानः, तिङर्थोः धात्वर्थे विशेषणं स्मृतः । अत्र च एकशेषेण स्मृताश्च स्मृतश्च इति स्मृताः । अतः फलव्यापारयोर्धातुःस्मृतः, आश्रये तु तिङर्थाः स्मृता इत्यत्र बहुत्वं च सङ्गच्छते । अत्र जरन्नैयायिकानां मीमांसकानामभिनवानाञ्च दार्शनीकानां मतमन्थनेन सुप्रसिद्धस्य धात्वर्थस्य समालोचनमत्र वरीवर्ति ।\",\"PeriodicalId\":332111,\"journal\":{\"name\":\"Kaumodaki: Journal of Multidisciplinary Studies\",\"volume\":\"35 2\",\"pages\":\"\"},\"PeriodicalIF\":0.0000,\"publicationDate\":\"2024-04-09\",\"publicationTypes\":\"Journal Article\",\"fieldsOfStudy\":null,\"isOpenAccess\":false,\"openAccessPdf\":\"\",\"citationCount\":\"0\",\"resultStr\":null,\"platform\":\"Semanticscholar\",\"paperid\":null,\"PeriodicalName\":\"Kaumodaki: Journal of Multidisciplinary Studies\",\"FirstCategoryId\":\"1085\",\"ListUrlMain\":\"https://doi.org/10.3126/kdk.v4i1.64543\",\"RegionNum\":0,\"RegionCategory\":null,\"ArticlePicture\":[],\"TitleCN\":null,\"AbstractTextCN\":null,\"PMCID\":null,\"EPubDate\":\"\",\"PubModel\":\"\",\"JCR\":\"\",\"JCRName\":\"\",\"Score\":null,\"Total\":0}","platform":"Semanticscholar","paperid":null,"PeriodicalName":"Kaumodaki: Journal of Multidisciplinary Studies","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/kdk.v4i1.64543","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0
मतान्तरालोचनपुरस्सरं वैयाकरणमते धात्वर्थानुशीलनम् {Rootwords as a Prime Concern of all the Dictions}
प्रस्तुतोऽयमालेखो मतान्तरालोचनपूर्वकं वैयाकरणमते धात्वर्थानुशीलने केन्द्रितोऽस्ति । सकलव्युत्पत्तेर्बीजभूतत्वात् सर्वशब्दमूलको धातुर्वर्तते । शब्दशास्त्रस्य सार्थक्यानुशीलनं कुर्वाणाः प्राच्यार्वाचीनाः शाब्दिकाः पाणिनि (त्रिमुनि) व्याकरणाधीनाः। अत्र च शोधशीर्षकघटकमतान्तरपदेन स्वेतराणां नैयायिकानां मीमांसकानाञ्च मतानि क्रोडीकृतानि सन्ति । तेषां मते धात्वर्थः फलमात्रं आहोस्वित् व्यापारश्च कः? एकतरमते शाब्दबोधे किमभिन्नं भिन्नं वा, अपि च मीमांसकानां मते प्रभाकरस्य कुमारिलभट्टस्य च भावनाप्रधाने शाब्दीभावनाया आर्थीभावानायाश्च भेदद्वयं दृश्यते तयोश्च व्यापाररूपत्वं हृदि निधाय समापतितानां दोषाणां प्रदर्शनपूर्वकं नैयायिकाः किं विवदन्ते तद्दोषवारणाय कौण्डभट्टमतस्योत्तररूपेण ”फलव्यापारयोर्धातु राश्रये तु तिङः स्मृतः............... इति कारिकामुररीकृत्य धात्वर्थः कः ? व्यापारः कः ? फलञ्च किम्? फलमात्रस्वीकारे को दोषः,भावनामुख्यविषयभूतानां प्रभाकरमीमांसकानां मते व्यापारमात्रं धात्वर्थस्वीकारे शाब्दबोधरूपपरिनिष्ठितलक्ष्ये को व्यात्यासः, वैयाकरणेष्वपि नागेशभट्टस्य किञ्चिद् भिन्नं मतं दृश्यते तदपि दृग्गोचरीकृत्य परिवेषणमस्यानुसन्धानकार्यस्य विषयो विद्यते । तद्यथा—
फलव्यापारयोर्धातुराश्रये तु तिङः स्मृतः ।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्। (कौण्डभट्ट, वि.सं २०४५ पृ.सं ७)
फलव्यापारयोः, इत्यत्र सप्तम्या विभक्तेः, निरूपितत्वमर्थः, अर्थात् फलनिष्ठं व्यापारनिष्ठञ्च यद् वाच्यं तन्निरूपितवाचकतावत्वं धातौ वर्तते । अत्र द्विवचनदर्शनेन च फले व्यापारे च धातोः पृथक् पृथक् शक्तिः सिद्ध्यति । अस्मिन् स्थले फलावच्छिन्ने व्यापारे एकैव विशिष्टा शक्तिरिति स्वीकारे तण्डुलान् पचतीत्यादौ तुण्डुलानाम्, चैत्रेण, तण्डुलाः पच्यन्ते इत्यादौ व्यापारे चैत्रस्य च अन्वयो न स्यात् “पदार्थः पदार्थेनाऽन्वेति न तु पदार्थैकदेशेन” इति नियमात्। तस्मात् एकवृन्तगतफलद्वय— फलत्रितयादि —न्यायेन फले व्यापारेच सर्वेषां धातूनां भिन्ना भिन्ना शक्तिरिति सिद्ध्यति । फले व्यापारे च धातुपदस्य द्विधा त्रिधा शक्तिः । तिङर्थास्तु आश्रयाः, फलाश्रया व्यापाराश्रया इति । अत्र फलापेक्षया व्यापारः प्रधानः, तिङर्थोः धात्वर्थे विशेषणं स्मृतः । अत्र च एकशेषेण स्मृताश्च स्मृतश्च इति स्मृताः । अतः फलव्यापारयोर्धातुःस्मृतः, आश्रये तु तिङर्थाः स्मृता इत्यत्र बहुत्वं च सङ्गच्छते । अत्र जरन्नैयायिकानां मीमांसकानामभिनवानाञ्च दार्शनीकानां मतमन्थनेन सुप्रसिद्धस्य धात्वर्थस्य समालोचनमत्र वरीवर्ति ।