मतान्तरालोचनपुरस्सरं वैयाकरणमते धात्वर्थानुशीलनम् {Rootwords as a Prime Concern of all the Dictions}
भोलानारायण Bholanarayan रेग्मी Regmi
{"title":"मतान्तरालोचनपुरस्सरं वैयाकरणमते धात्वर्थानुशीलनम् {Rootwords as a Prime Concern of all the Dictions}","authors":"भोलानारायण Bholanarayan रेग्मी Regmi","doi":"10.3126/kdk.v4i1.64543","DOIUrl":null,"url":null,"abstract":"प्रस्तुतोऽयमालेखो मतान्तरालोचनपूर्वकं वैयाकरणमते धात्वर्थानुशीलने केन्द्रितोऽस्ति । सकलव्युत्पत्तेर्बीजभूतत्वात् सर्वशब्दमूलको धातुर्वर्तते । शब्दशास्त्रस्य सार्थक्यानुशीलनं कुर्वाणाः प्राच्यार्वाचीनाः शाब्दिकाः पाणिनि (त्रिमुनि) व्याकरणाधीनाः। अत्र च शोधशीर्षकघटकमतान्तरपदेन स्वेतराणां नैयायिकानां मीमांसकानाञ्च मतानि क्रोडीकृतानि सन्ति । तेषां मते धात्वर्थः फलमात्रं आहोस्वित् व्यापारश्च कः? एकतरमते शाब्दबोधे किमभिन्नं भिन्नं वा, अपि च मीमांसकानां मते प्रभाकरस्य कुमारिलभट्टस्य च भावनाप्रधाने शाब्दीभावनाया आर्थीभावानायाश्च भेदद्वयं दृश्यते तयोश्च व्यापाररूपत्वं हृदि निधाय समापतितानां दोषाणां प्रदर्शनपूर्वकं नैयायिकाः किं विवदन्ते तद्दोषवारणाय कौण्डभट्टमतस्योत्तररूपेण ”फलव्यापारयोर्धातु राश्रये तु तिङः स्मृतः............... इति कारिकामुररीकृत्य धात्वर्थः कः ? व्यापारः कः ? फलञ्च किम्? फलमात्रस्वीकारे को दोषः,भावनामुख्यविषयभूतानां प्रभाकरमीमांसकानां मते व्यापारमात्रं धात्वर्थस्वीकारे शाब्दबोधरूपपरिनिष्ठितलक्ष्ये को व्यात्यासः, वैयाकरणेष्वपि नागेशभट्टस्य किञ्चिद् भिन्नं मतं दृश्यते तदपि दृग्गोचरीकृत्य परिवेषणमस्यानुसन्धानकार्यस्य विषयो विद्यते । तद्यथा—\nफलव्यापारयोर्धातुराश्रये तु तिङः स्मृतः ।\nफले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्। (कौण्डभट्ट, वि.सं २०४५ पृ.सं ७)\nफलव्यापारयोः, इत्यत्र सप्तम्या विभक्तेः, निरूपितत्वमर्थः, अर्थात् फलनिष्ठं व्यापारनिष्ठञ्च यद् वाच्यं तन्निरूपितवाचकतावत्वं धातौ वर्तते । अत्र द्विवचनदर्शनेन च फले व्यापारे च धातोः पृथक् पृथक् शक्तिः सिद्ध्यति । अस्मिन् स्थले फलावच्छिन्ने व्यापारे एकैव विशिष्टा शक्तिरिति स्वीकारे तण्डुलान् पचतीत्यादौ तुण्डुलानाम्, चैत्रेण, तण्डुलाः पच्यन्ते इत्यादौ व्यापारे चैत्रस्य च अन्वयो न स्यात् “पदार्थः पदार्थेनाऽन्वेति न तु पदार्थैकदेशेन” इति नियमात्। तस्मात् एकवृन्तगतफलद्वय— फलत्रितयादि —न्यायेन फले व्यापारेच सर्वेषां धातूनां भिन्ना भिन्ना शक्तिरिति सिद्ध्यति । फले व्यापारे च धातुपदस्य द्विधा त्रिधा शक्तिः । तिङर्थास्तु आश्रयाः, फलाश्रया व्यापाराश्रया इति । अत्र फलापेक्षया व्यापारः प्रधानः, तिङर्थोः धात्वर्थे विशेषणं स्मृतः । अत्र च एकशेषेण स्मृताश्च स्मृतश्च इति स्मृताः । अतः फलव्यापारयोर्धातुःस्मृतः, आश्रये तु तिङर्थाः स्मृता इत्यत्र बहुत्वं च सङ्गच्छते । अत्र जरन्नैयायिकानां मीमांसकानामभिनवानाञ्च दार्शनीकानां मतमन्थनेन सुप्रसिद्धस्य धात्वर्थस्य समालोचनमत्र वरीवर्ति ।","PeriodicalId":332111,"journal":{"name":"Kaumodaki: Journal of Multidisciplinary Studies","volume":"35 2","pages":""},"PeriodicalIF":0.0000,"publicationDate":"2024-04-09","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":null,"platform":"Semanticscholar","paperid":null,"PeriodicalName":"Kaumodaki: Journal of Multidisciplinary Studies","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/kdk.v4i1.64543","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0
Abstract
प्रस्तुतोऽयमालेखो मतान्तरालोचनपूर्वकं वैयाकरणमते धात्वर्थानुशीलने केन्द्रितोऽस्ति । सकलव्युत्पत्तेर्बीजभूतत्वात् सर्वशब्दमूलको धातुर्वर्तते । शब्दशास्त्रस्य सार्थक्यानुशीलनं कुर्वाणाः प्राच्यार्वाचीनाः शाब्दिकाः पाणिनि (त्रिमुनि) व्याकरणाधीनाः। अत्र च शोधशीर्षकघटकमतान्तरपदेन स्वेतराणां नैयायिकानां मीमांसकानाञ्च मतानि क्रोडीकृतानि सन्ति । तेषां मते धात्वर्थः फलमात्रं आहोस्वित् व्यापारश्च कः? एकतरमते शाब्दबोधे किमभिन्नं भिन्नं वा, अपि च मीमांसकानां मते प्रभाकरस्य कुमारिलभट्टस्य च भावनाप्रधाने शाब्दीभावनाया आर्थीभावानायाश्च भेदद्वयं दृश्यते तयोश्च व्यापाररूपत्वं हृदि निधाय समापतितानां दोषाणां प्रदर्शनपूर्वकं नैयायिकाः किं विवदन्ते तद्दोषवारणाय कौण्डभट्टमतस्योत्तररूपेण ”फलव्यापारयोर्धातु राश्रये तु तिङः स्मृतः............... इति कारिकामुररीकृत्य धात्वर्थः कः ? व्यापारः कः ? फलञ्च किम्? फलमात्रस्वीकारे को दोषः,भावनामुख्यविषयभूतानां प्रभाकरमीमांसकानां मते व्यापारमात्रं धात्वर्थस्वीकारे शाब्दबोधरूपपरिनिष्ठितलक्ष्ये को व्यात्यासः, वैयाकरणेष्वपि नागेशभट्टस्य किञ्चिद् भिन्नं मतं दृश्यते तदपि दृग्गोचरीकृत्य परिवेषणमस्यानुसन्धानकार्यस्य विषयो विद्यते । तद्यथा—
फलव्यापारयोर्धातुराश्रये तु तिङः स्मृतः ।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्। (कौण्डभट्ट, वि.सं २०४५ पृ.सं ७)
फलव्यापारयोः, इत्यत्र सप्तम्या विभक्तेः, निरूपितत्वमर्थः, अर्थात् फलनिष्ठं व्यापारनिष्ठञ्च यद् वाच्यं तन्निरूपितवाचकतावत्वं धातौ वर्तते । अत्र द्विवचनदर्शनेन च फले व्यापारे च धातोः पृथक् पृथक् शक्तिः सिद्ध्यति । अस्मिन् स्थले फलावच्छिन्ने व्यापारे एकैव विशिष्टा शक्तिरिति स्वीकारे तण्डुलान् पचतीत्यादौ तुण्डुलानाम्, चैत्रेण, तण्डुलाः पच्यन्ते इत्यादौ व्यापारे चैत्रस्य च अन्वयो न स्यात् “पदार्थः पदार्थेनाऽन्वेति न तु पदार्थैकदेशेन” इति नियमात्। तस्मात् एकवृन्तगतफलद्वय— फलत्रितयादि —न्यायेन फले व्यापारेच सर्वेषां धातूनां भिन्ना भिन्ना शक्तिरिति सिद्ध्यति । फले व्यापारे च धातुपदस्य द्विधा त्रिधा शक्तिः । तिङर्थास्तु आश्रयाः, फलाश्रया व्यापाराश्रया इति । अत्र फलापेक्षया व्यापारः प्रधानः, तिङर्थोः धात्वर्थे विशेषणं स्मृतः । अत्र च एकशेषेण स्मृताश्च स्मृतश्च इति स्मृताः । अतः फलव्यापारयोर्धातुःस्मृतः, आश्रये तु तिङर्थाः स्मृता इत्यत्र बहुत्वं च सङ्गच्छते । अत्र जरन्नैयायिकानां मीमांसकानामभिनवानाञ्च दार्शनीकानां मतमन्थनेन सुप्रसिद्धस्य धात्वर्थस्य समालोचनमत्र वरीवर्ति ।
मतान्तरालोचनपुरस्सरं वैयाकरणमते धात्वर्थानुशीलनम् {Rootwords as a Prime Concern of all Dictions}
प्रस्तुतोऽयमालेखो मतान्तरालोचनपूर्वकं वैयाकरणमते धात्वर्थानुशीलने केन्द्रितोऽस्ति । सकलव्युत्पत्तेर्बीजभूतत्वात् सर्वशब्दमूलको धातुर्वर्तते । शब्दशास्त्रस्य सार्थक्यानुशीलनं कुर्वाणाःप्राच्यार्वाचीनाः शाब्दिकाः पाणिनि (त्रिमुनि) व्याकरणाधीनाः।्र च शोधशीर्षकघटकमतान्तरपदेन स्वेतराणंानैयायिकानां मीमांसकानाञ्च मतानि क्रोडीकृतानि सन्ति । तेषां मते धात्वर्थः फलमात्रं आहोस्वित् व्यारश्च कः?एकतरमते शाब्दबोधे किमभिन्नं भिन्ंन वा、अपि च मीमांसकानां मते प्रभाकरस्य कुमारिलभट्टस्य च भावनाप्रधाने शाब्दीभावनाया आर्थीभावनाायाश्च भेद्वयंदृश्यते तयोश्च व्यापारूपत्वं हृदिनिधायसमापतितानां दोषाणां प्रदर्शनपूर्वकं नैयायिकाःकिं वविदन्ते तद्दोषवारणाय कौण्डभट्टमतस्योत्तररूपेण "फलव्यापारयोर्धातु राश्रये तु तिङः स्मृतः............... इति कारिकामुरीकृत्य धात्वर्थः कः ?व्यापारः कः ?फलञ्च किम्?फलमात्रस्वीकारे को दोषः,भावनामुख्यविषयभूतना पां्रभाकरमीमांसकानां मते व्यारमात्रं धात्वर्थस्वीकारे शाब्दबोधरूपपरिनिष्ठितलक्ष्ये को व्यात्यासः 、वैयाकरणेष्वपि नागेशभट्टस्य किञ्चिद् भिन्नं मत दृश्यते तदपि दृग्गोचरीकृत्य परिवेषणमस्यानुसन्धानाकर्यस्य विषयोविद्यते । तद्यथा-फलव्यापारयोर्धातुराश्रये तु तिङः स्मृतःल ।फे प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्। (कौण्डभट्ट、वि.सं २०४५ पृ.सं७)फलव्यापारयोः, इत्यत्र सप्तम्या विभक्तेः, निरूपितत्वमर्थः、अर्थात् फलनिष्ठं व्यपारनिष्ठञ्च यद् वाच्यं तन्निरूपितवाचकतावत्वं धातौ वर्तते । अत्र द्विवचनदर्शनेन च फले व्यापारे च धातोः पृथक्पृथक् शक्तिः सिद्ध्यति । अस्मिन् स्थले फलावच्छिन्ने व्यपाारे एकैव विशिष्टा शक्तिरिति स्वीकारे तण्डुलान् पचतीत्यादौ तुण्डुलानाम्、चैत्रेण、तण्डुलाः पच्यन्ते इत्यादौ व्यापारे चैत्रस्य च अन्वयो न स्यात् "पदार्थः पदार्थेनाऽन्वेति न तु पदार्थैकदेशेन" इति नियमात्। तस्मात् एकवृन्तगतफलद्वय-फत्रितयादि -न्यायन फले व्यपाारेच सर्वेषा धंातूनां भिन्ना भिन्ना शक्तिरिति सिद्ध्यत । फले व्यापारे च धातुपदस्य द्विधा त्रिधा शक्तिः । तिङर्थास्तु आश्रयाः、फलाश्रया व्यापाराश्रया इति । अत्र फलापेक्षया व्यापारः प्रधानः, तिङर्थोः धात्वर्थे विशेषणं स्मृतः । अत्र च एकशेषेण स्मृताश्च स्मृतश्च इति स्मृताः । अतः फलव्यापारयोर्धातुःस्मृतः,आश्रये तु तिङर्थाः स्मृता इत्यत्र बहुत्वं च सङ्गच्छते । अत्र जरन्नैयायिकानां मीमांसकानामभिनवानाञ्च दार्शनीकानां मतमन्थनेन सुप्रसिद्धस्य धात्वर्थस्य समालोचनमत्र वरीवर्ति ।
本文章由计算机程序翻译,如有差异,请以英文原文为准。