धात्वर्थविभागयोः निरूपणात्मकमध्ययनम्

टीकारामः दहालः
{"title":"धात्वर्थविभागयोः निरूपणात्मकमध्ययनम्","authors":"टीकारामः दहालः","doi":"10.3126/dristikon.v11i1.39173","DOIUrl":null,"url":null,"abstract":"भू वा पठ् इत्यादयः क्रियावाचिनः धातुपाठे पठिताः सकलशब्दानामाधारभूताः धातवः सन्ति । धातुः मूलरूपेण क्रिया तथा नामसर्वनामविशेषणाव्ययपदानां व्युत्पादकः बीजरूपेण परिपोषकश्च वर्तते । व्युत्पादनस्याधारभूतत्वादेव धातोः कृत् प्रत्यये सति कृदन्तपदानि नामादीनि तथा तिङ्प्रत्यये सति तिङन्तपदानि व्युत्पन्नानि भवन्ति । कर्तरि कर्मणि भावे चार्थे धातोः लट्, लिट् इत्यादयः दश ‘लकाराः’ भवन्ति । कर्तरि लकारे सति कर्तृवाच्यस्य क्रियापदानि कर्मणि लकारे सति कर्मवाच्यस्य क्रियापदानि तथा भावे लकारे सति भाववाच्यस्य क्रियापदानि व्युत्पन्नानि भवन्ति । लकारस्य स्थाने तिबादयोऽ ष्टादश तिङ्प्रत्यया आदिश्यन्ते । ततः धातोः तिङ्प्रत्ययसंयोजनेन तिङन्तपदानां रचना भवति । एतानि तिङन्तपदानि आख्यातपदनाम्ना क्रियापदनाम्ना च पदविभागेषु प्रसिद्धानि सन्ति । धातोरनेके विभागाः सन्ति । विविधान्नाधारान्नाधृत्य विभागान्नध्येतुं शक्यते । धातोः गणपाठानुरूपम्, व्युत्पादनप्रक्रियानुरूपम्, कर्मग्रहणदृशा तथा इडागमसहिताः सेटः इडागमरहिताः अनिट्रूपेण विभागाः दृश्यन्ते । ते च सर्वे विभागाः कार्यपरकतया विभक्ताः विलोक्यन्ते । प्रथमतः गणपठिताः धातवः आद्यधातोः नाम्नैव स्थापिताः भ्वाद्यदादिजुहोत्यादिदिवादि–तनादिक्र्यादिस्वादिचुरादयः दश गणेषु निबद्धाः सन्ति । कर्मग्रहणदृशा च धातोः सकर्मकाकर्मकः विभागः शास्त्रेषु व्यवहृतः समुपलभ्यते । रूपायन सन्दर्भे इडागमसहितेन रूपायितः सेट् तथा तद्ररहितः अनिट् इति धातोः विभागश्च कृतो विलोक्यते । येभ्यः धातुभ्यः परस्मैदिनः तिङ्प्रत्ययाः भवन्ति ते परस्मैपदिनस्तथा येभ्यः आत्मनेपदिनः तिङ्प्रत्ययाः उत्पद्यन्ते ते चात्मनेपदिनः धातुरूपेण विभक्ताः विद्यन्ते । येभ्यः परस्मैपदिनस्तथात्मनेपदिनश्चोभयविधः तिङः जायन्ते ते च धातवः उभयपदिनः मन्यन्ते ।","PeriodicalId":392018,"journal":{"name":"Dristikon: A Multidisciplinary Journal","volume":"993 1","pages":"0"},"PeriodicalIF":0.0000,"publicationDate":"2021-08-17","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":null,"platform":"Semanticscholar","paperid":null,"PeriodicalName":"Dristikon: A Multidisciplinary Journal","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/dristikon.v11i1.39173","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0

Abstract

भू वा पठ् इत्यादयः क्रियावाचिनः धातुपाठे पठिताः सकलशब्दानामाधारभूताः धातवः सन्ति । धातुः मूलरूपेण क्रिया तथा नामसर्वनामविशेषणाव्ययपदानां व्युत्पादकः बीजरूपेण परिपोषकश्च वर्तते । व्युत्पादनस्याधारभूतत्वादेव धातोः कृत् प्रत्यये सति कृदन्तपदानि नामादीनि तथा तिङ्प्रत्यये सति तिङन्तपदानि व्युत्पन्नानि भवन्ति । कर्तरि कर्मणि भावे चार्थे धातोः लट्, लिट् इत्यादयः दश ‘लकाराः’ भवन्ति । कर्तरि लकारे सति कर्तृवाच्यस्य क्रियापदानि कर्मणि लकारे सति कर्मवाच्यस्य क्रियापदानि तथा भावे लकारे सति भाववाच्यस्य क्रियापदानि व्युत्पन्नानि भवन्ति । लकारस्य स्थाने तिबादयोऽ ष्टादश तिङ्प्रत्यया आदिश्यन्ते । ततः धातोः तिङ्प्रत्ययसंयोजनेन तिङन्तपदानां रचना भवति । एतानि तिङन्तपदानि आख्यातपदनाम्ना क्रियापदनाम्ना च पदविभागेषु प्रसिद्धानि सन्ति । धातोरनेके विभागाः सन्ति । विविधान्नाधारान्नाधृत्य विभागान्नध्येतुं शक्यते । धातोः गणपाठानुरूपम्, व्युत्पादनप्रक्रियानुरूपम्, कर्मग्रहणदृशा तथा इडागमसहिताः सेटः इडागमरहिताः अनिट्रूपेण विभागाः दृश्यन्ते । ते च सर्वे विभागाः कार्यपरकतया विभक्ताः विलोक्यन्ते । प्रथमतः गणपठिताः धातवः आद्यधातोः नाम्नैव स्थापिताः भ्वाद्यदादिजुहोत्यादिदिवादि–तनादिक्र्यादिस्वादिचुरादयः दश गणेषु निबद्धाः सन्ति । कर्मग्रहणदृशा च धातोः सकर्मकाकर्मकः विभागः शास्त्रेषु व्यवहृतः समुपलभ्यते । रूपायन सन्दर्भे इडागमसहितेन रूपायितः सेट् तथा तद्ररहितः अनिट् इति धातोः विभागश्च कृतो विलोक्यते । येभ्यः धातुभ्यः परस्मैदिनः तिङ्प्रत्ययाः भवन्ति ते परस्मैपदिनस्तथा येभ्यः आत्मनेपदिनः तिङ्प्रत्ययाः उत्पद्यन्ते ते चात्मनेपदिनः धातुरूपेण विभक्ताः विद्यन्ते । येभ्यः परस्मैपदिनस्तथात्मनेपदिनश्चोभयविधः तिङः जायन्ते ते च धातवः उभयपदिनः मन्यन्ते ।
求助全文
约1分钟内获得全文 求助全文
来源期刊
自引率
0.00%
发文量
0
×
引用
GB/T 7714-2015
复制
MLA
复制
APA
复制
导出至
BibTeX EndNote RefMan NoteFirst NoteExpress
×
提示
您的信息不完整,为了账户安全,请先补充。
现在去补充
×
提示
您因"违规操作"
具体请查看互助需知
我知道了
×
提示
确定
请完成安全验证×
copy
已复制链接
快去分享给好友吧!
我知道了
右上角分享
点击右上角分享
0
联系我们:info@booksci.cn Book学术提供免费学术资源搜索服务,方便国内外学者检索中英文文献。致力于提供最便捷和优质的服务体验。 Copyright © 2023 布克学术 All rights reserved.
京ICP备2023020795号-1
ghs 京公网安备 11010802042870号
Book学术文献互助
Book学术文献互助群
群 号:604180095
Book学术官方微信